त्रिदलंत्रिगुणाकारंत्रिनेत्रं त्रियायुधं
त्रिजन्मपापसंहारम्एकबिल्वंशिवार्पणं
त्रिशाखैःबिल्वपत्रैश्चअच्चिद्रैःकोमलैःशुभैः
तवपूजांकरिष्यामिएकबिल्वंशिवार्पणं
कोटि कन्या महादानं तिलपर्वत कोटयः
काञ्चनंक्षीलदानेनएकबिल्वंशिवार्पणं
काशीक्षेत्रनिवासं कालभैरव दर्शनं
प्रयागेमाधवंदृष्ट्वाएकबिल्वंशिवार्पणं
इन्दुवारेव्रतंस्थित्वानिराहारोमहेश्वराः
नक्तंहौष्यामिदेवेशएकबिल्वंशिवार्पणं
रामलिङ्गप्रतिष्ठा वैवाहिक कृतं तधा
तटाकानिचसन्धानम्एकबिल्वंशिवार्पणं
अखण्डबिल्वपत्रं आयुतं शिवपूजनं
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं
उमया सहदेवेश नन्दि वाहनमेव
भस्मलेपनसर्वाङ्गम्एकबिल्वंशिवार्पणं
सालग्रामेषुविप्राणांतटाकंदशकूपयोः
यज्नकोटिसहस्रस्चएकबिल्वंशिवार्पणं
दन्तिकोटि सहस्रेषु अश्वमेध शतक्रतौ
कोटिकन्यामहादानम्एकबिल्वंशिवार्पणं
बिल्वाणांदर्शनंपुण्यंस्पर्शनंपापनाशनं
अघोर पापसंहारम् एकबिल्वं शिवार्पणं
सहस्रवेदपाटेषुब्रह्मस्तापनमुच्यते
अनेकव्रतकोटीनाम्एकबिल्वंशिवार्पणं
अन्नदानसहस्रेषुसहस्रोपनयनं तधा
अनेक जन्मपापानि एकबिल्वं शिवार्पणं
बिल्वस्तोत्रमिदंपुण्यंयः पठेश्शिव सन्निधौ
शिवलोकमवाप्नोतिएकबिल्वंशिवार्पणं
Axact

Axact

Vestibulum bibendum felis sit amet dolor auctor molestie. In dignissim eget nibh id dapibus. Fusce et suscipit orci. Aliquam sit amet urna lorem. Duis eu imperdiet nunc, non imperdiet libero.

Post A Comment:

0 comments: